department of Sanskrit

department of Sanskrit

संस्कृतम् • भारतदेशस्य अमूल्या सम्पत् संस्कृतम्। संस्कृतेन भारतस्य विशेषः विश्वस्मिन् प्रतिष्ठापितः। अतः प्रपञ्चे भारतविषये आदरः वर्तते । तस्य आदरस्य रक्षणाय, वर्धनाय च संस्कृताध्ययनं भारतीयानाम् अस्माकं सर्वेषाम् आद्यं कर्तव्यम् । वेदकालादारभ्य अद्यपर्यन्तं संस्कृतप्रभावः भारतस्य सर्वेषु क्षेत्रेषु अविच्छिन्नतया दृश्यते । तदा तदा कालप्रवाहे बौद्धिकाध्ययनेन सांस्कृतिकाध्ययने बाधितमिव संस्कृताध्ययनं पराक्रमेण प्रबाधितम् । अथापि संस्कृतं हित्वा भारतं कल्पयितुं न शक्यते । एवं भारतीयतायाः प्रत्यभिज्ञायते संस्कृतम् । भारतस्य इतिहासः संस्कृतेन यथार्थतया प्रकाशितः । अतः स्वदेशस्य इतिहासाधिगमाय संस्कृतं प्रभवति । भाषासु सर्वासु समर्था इयं वाणी । सहस्रेभ्यः वर्षेभ्यः अविरूपा भावनिवेदने यथावत् कुर्वन्ती विराजते । अतः भावानुगुणतया भाषितुं संस्कृतं साधनम् । तत्र तावत् संस्कृतभाषया सार्थकजीवननिर्वहणोपयोगिनः विषयाः समग्रतया निरूपिताः अतः इतराभ्यः भाषाभ्यः स्वरूपतः प्रतिपाद्यविषयतथ्च अतिरिच्यते । अतः संस्कृतम् अध्येयम् ।